|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.42. अध्यायः 042
Mahabharata - Vana Parva - Chapter Topics
पार्थेन मातलिसमानीतरथारोहणएन स्वर्गगमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-42-0x(1884)(17424)
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः।
चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ 3-42-1(17425)
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः।
रथो मातलिसंयुक्त आजगाम महाप्रभः ॥ 3-42-2(17426)
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव।
दिशः संपूरयन्नादैर्महामेघरवोपमैः। 3-42-3(17427)
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः।
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥ 3-42-4(17428)
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः।
वायुस्फोटाः सनिर्घाताः शङ्खमेघस्वनास्तथा ॥ 3-42-5(17429)
तत्रनागा महाकाया ज्वलितास्याः सुदारुणाः।
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ 3-42-6(17430)
दशवाजिसहस्राणि हरीणां वातरंहसाम्।
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ 3-42-7(17431)
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्।
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ 3-42-8(17432)
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्।
दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत् ॥ 3-42-9(17433)
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः।
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ 3-42-10(17434)
भोभो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति।
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संभतम् ॥ 3-42-11(17435)
आह माममरश्रेष्ठः पिता तव शतक्रतुः।
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥ 3-42-12(17436)
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा।
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ 3-42-13(17437)
अस्माल्लोकाद्देवलोकं पाकशासनशासनात्।
मारोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ 3-42-14(17438)
अर्जुन उवाच। 3-42-15x(1885)
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्।
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ 3-42-15(17439)
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः।
दैवतैर्वा दुरारोहं दानवैर्वा रथोत्तमम् ॥ 3-42-16(17440)
नातप्ततपसा शक्य एष दिव्यो महारथः।
द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च ॥ 3-42-17(17441)
त्वयि मतिष्ठिते साधो रथस्थे स्थिरवाजिनि।
पश्चादहमथारोक्ष्ये मुकृती सत्पथं यथा ॥ 3-42-18(17442)
वैशम्पायन उवाच। 3-42-19x(1886)
तस्यतद्वचनं श्रुत्वा मातलिः शक्रसारथिः।
आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः ॥ 3-42-19(17443)
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः।
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ 3-42-20(17444)
ततः पितृन्यथान्यायं तर्पयित्वा यथाविधि।
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ 3-42-21(17445)
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्।
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ 3-42-22(17446)
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः।
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ 3-42-23(17447)
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्।
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि ॥ 3-42-24(17448)
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च।
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ 3-42-25(17449)
सुसुगन्धाश्च वैर्योघास्त्वच्छरीरविनिःसृताः।
अमृतास्वादसृशाः पीताः प्रस्रवणोदकाः ॥ 3-42-26(17450)
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा।
मया तवाङ्के ललितं शैलराज महाप्रभो ॥ 3-42-27(17451)
अप्सरोगणसंकीर्णए ब्रह्मघोषानुनादिते।
सुखमस्म्युषितः शैल तव सानुषु नित्यदा ॥ 3-42-28(17452)
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा।
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ 3-42-29(17453)
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा।
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ 3-42-30(17454)
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्।
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ 3-42-31(17455)
न तत्र सूर्यः सोमो वा द्योतते न च पावकः।
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ 3-42-32(17456)
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै।
आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि ॥ 3-42-33(17457)
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः।
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा ॥ 3-42-34(17458)
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि।
तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः ॥ 3-42-35(17459)
गन्धर्वाणां सहस्राणि मूर्यज्वलिततेजसाम्।
गुह्यकारनामृषीणां च तथैवाप्सरसां गणान् ॥ 3-42-36(17460)
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः।
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ 3-42-37(17461)
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः।
तान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ 3-42-38(17462)
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम्।
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ 3-42-39(17463)
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः।
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः ॥ 3-42-40(17464)
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः ॥ 3-42-41(17465)
[एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।]
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥ 3-42-42(17466)
॥ इति रश्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-42-3 पाटयन् द्विधाकुर्वन् ॥ 3-42-5 तुलागुडाः भाण्डगोलकाः। वायुस्फोटाः वेगवशाद्वायुं जनयन्तः ॥ 3-42-7 हरीणां पीतकौशेयसंनिभानां वाजिनां सहस्राणीत्येकदेशान्वयः ॥ 3-42-8 वैजयन्तं नाम्ना देवेन्द्रध्वजम् ॥ 3-42-20 आप्लुतः स्नातः ॥ 3-42-27 ललितं क्रीडितम् ॥ 3-42-33 विप्कृष्टत्वात् दूरत्वात्। सुमहान्त्पि तनूनि सूक्ष्माणि दृश्यन्ते ॥ 3-42-34 धिष्ण्येषु स्थानेषु ॥ 3-42-42 संक्रमन् गच्छन् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|